Thursday 10 September 2020

आत्मबल वृद्धि, इच्छाशक्ति संवर्द्धन और सर्वार्थसिद्धि में सहायक पञ्चमुखवीरहनुमत्कवच उपासना

विविध समस्याओं के समाधान के लिए हनुमान-उपासना की परम्परा अद्यावधि प्रचलित है।हनुमत् साधना की तांत्रिक पद्धति में पञ्चमुखहनुमान की उपासना साधकों में अत्यन्त लोकप्रिय रही है।आधिभौतिक, आधिदैविक तथा आध्यात्मिक उन्नति के लिए 'श्रीपञ्चमुखहनुमत्कवच' का प्रयोग सिद्धिप्रद माना गया है।


     

।।श्रीपञ्चमुखहनुमत्कवचम्‌।।


ॐ श्री गणेशाय नमः।
ॐ श्री गणेशाय नमः।
ॐ श्री गणेशाय नमः।

दिग्बन्ध:- ॐ अस्य श्री पञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषिः, गायत्रीछन्दः, पञ्चमुखविराट्हनुमान्‌ देवता, ह्रीं बीजम्, श्रीं शक्ति:, क्रौं कीलकम्, क्रूं कवचम्, क्रैं अस्त्राय फट्। इति दिग्बन्धः ॥

श्री गरुड़ उवाच

अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि।

यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌ ॥1॥

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्‌ ।

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्‌ ॥2॥

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्‌ ।

दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्‌ ॥3॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌ ।

अत्युग्रतेजोवपुषं भीषणं भयनाशनम्‌ ॥4॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम्‌॥

सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌ ॥5॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌ ।

पाताल-सिंह-वेताल-ज्वररोगादि-कृन्तनम्‌ ॥6॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।

येन वक्त्रेण विप्रेन्द्र! तारकाख्यं महासुरम्‌ ॥7॥

जघान शरणं तत् स्यात् सर्वशत्रुहरं परम्‌ ।

ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम्‌ ॥8॥

खङ्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम्‌ ।

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌ ॥9॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम्‌ ।

एतान्यायुधजालानि ध्यायन्तं भजाम्यहम्‌ ॥10॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌ ।

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्‌ ॥11॥

सर्वाश्चर्यमयं देवं हनुमद्-विश्वतोमुखम ।

पञ्चास्यमच्युतमनेक-विचित्रवर्णं वक्त्रं

शशाङ्क-शिखरं कपिराजवर्यम् ।

पीताम्बरादि-मुकुटैरूपशोभिताङ्गं

पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥12॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌ ।

शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥13॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥14॥


ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नारसिंहाय सकलभूतप्रमथनाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गुरुडाननाय सकलविषहराय स्वाहा । ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा । ऊँ नमो भगवते पञ्चवदनायोर्द्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा ।

ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः, अनुष्टुप्‌छन्दः, पञ्चमुखवीरहनुमान्‌ देवता, हनुमानिति बीजम्‌, वायुपुत्र इति शक्तिः, अंजनीसुत इति कीलकम्‌, श्रीरामदूत-हनुमत्प्रसादसिद्धयर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यस्य ।

करन्यास:-
ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यास:-
ॐ अञ्जनीसुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।

अथ ध्यानम्‌ -

वन्दे वानर-नारसिंह-खगराट्- क्रोडाश्ववक्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं दैदीप्यमानं रुचा ।
हस्ता-ऽब्जैरसिखेट-पुस्तक-सुधा-कुम्भा-ऽङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम्‌।।

विनियोग:-
ॐ श्रीरामदूतायाऽऽञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लंघनाय पिङ्गलनयनायाऽमितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीवनी-संजीवित-अङ्गद-लक्ष्मण-महाकपिसैन्य-प्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित रामवरप्रदाय षट्प्रयोग-अगम पञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

दिग्बन्ध:-
ॐ हरिमर्कट-मर्कटाय बं बं बं बं बं वौषट् स्वाहा ।
ॐ हरिमर्कट-मर्कटाय फं फं फं फं फं फट् स्वाहा ।
ॐ हरिमर्कट-मर्कटाय खें खें खें खें खें मारणाय स्वाहा ।
ॐ हरिमर्कट-मर्कटाय लुं लुं लुं लुं लुं आकर्षित-सकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कट मर्कटाय धं धं धं धं धं शत्रुस्तम्भनाय स्वाहा ।
ॐ टं टं टं टं टं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ऊँ कं खं गं घं ङं, चं छं जं झं ञं, टं ठं डं ढं णं, तं थं दं धं नं ,पं फं बं भं मं, यं रं लं वं शं ,षं सं हं लं क्षं स्वाहा।

ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टं टं टं टं टं सकलशत्रुसंहारणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नारसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ऊँ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मं मं मं मं मं सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायाऽदिवराहाय लं लं लं लं लं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।
ऊँ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूत-प्रेत-पिशाच-ब्रह्मराक्षस-शाकिनी-डाकिन्यन्तरिक्षग्रह परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जं जं जं जं जं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत् स्तोत्रं सर्वशत्रुनिवारणम्‌ ॥15॥
द्विवारं तु पठेन्नित्यं पुत्र-पौत्र-प्रवर्धनम्‌ ।
त्रिवारं च पठेन्नित्यं सर्वसम्पतकरं शुभम्‌ ॥16॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्‌ ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम्‌ ॥17॥
षट्वारं च पठेन्नित्यं सर्वदेववशङ्करम्‌ ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्‌ ॥18॥
अष्टवारं पठेन्नित्यम् इष्टकामार्थ-सिद्धिदम्‌ ।
नववारं पठेन्नित्यं राजभोगमवाप्युनात्‌ ॥19॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्‌ ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद् ध्रुवम्‌ ॥20॥
निर्बलो-रोगयुक्तश्च महाव्याध्यादि पीड़ित:।
कवचस्मरणेनैव महाबलमवाप्नुयात्‌ ॥21॥

॥ श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री पञ्चमुखहनुमत्कवचं संपूर्णम् ॥

No comments:

Post a Comment